पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


 न चैषां सघातस्त्वमु भवति विद्वन् शृणु पर
  यदेतेपां साक्षी स्फुरणममल तत्त्वमसि हि ॥ ७७३ ॥
यज्जायते वस्तु तदेव वर्धते तदेव मृत्यु समुपैति काले ।
जम्मैव तेनास्ति तथैव मृत्यु स्त्येव नित्यस्य विभोरजस्य ।। ७७४ ॥
य एष देहो जनितः स एव समेधते नश्यति कर्मयोगात् ।
त्वमेतदीयास्वखिलास्ववस्थास्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥
 यत्स्वप्रकाशमखिलात्मकमासुषुप्ते-
  रेकात्मनाहमहमित्यवभाति नित्यम् ।
 बुद्धेः समस्तविकृतेरविकारि बोद्धृ
  यद्ब्रह्म तत्त्वमसि केवलबोवमात्रम् || ७७६ ॥
 स्वात्मन्यनस्तमयसविदि कल्पितस्य
  व्योमादिसर्वजगतः प्रददाति सत्ताम् ।
 स्फूर्ति स्वकीयमहसा वितनोति साक्षा-
  द्यब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७ ॥
 सम्यक्समाविनिरतैर्विमलातरगैः
  साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् ।
 सतुष्यते परमहसकुलैरजस्त्र
  यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ।। ७७८ ।।
 अतर्बहिः स्वयमखडितमेकरूप-
  मारोपितार्थवदुदचति मूढबुद्धेः ।
 मृत्स्नादिवद्विगतविक्रियमात्मवेद्य
  यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ।।
 श्रुत्युक्तमव्ययमनतमनादिमध्य-
  मव्यक्तमक्षरमनाश्रयमप्रमेयम् ।
 आनदसद्धनमनामयमद्वितीयं