जीवेशादिभिदापि वा न च ऋत कर्तुं क्वचिच्छक्यते ।
मायाकल्पितदेशकालजगदीशादिभ्रमरतादृशः
को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ||७६४
न स्वप्नजागरणयोरुभयोर्विशेषः
संदृश्यते क्वचिदपि भ्रमजैर्विकल्पैः ।
यदृष्टदर्शनमुखैरत एव मिथ्या
स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥
आविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ ।
दृष्टदर्शनदृश्यादिकल्पनोभयतः समा || ७६६ ॥
अभाव उभयोः सुप्तौ सवेरप्यनुभूयते ।
न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥
भ्रात्या ब्रह्मणि भेदोऽय सजातीयादिलक्षणः ।
कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥
यत्र नान्यत्पश्यतीति श्रुतिर्द्वैत निषेधति ।
कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥
यतस्ततो ब्रह्म सदाऽद्वितीय विकल्पशून्य निरुपाधि निर्मलम् ।
निरतरानदघन निरीहं निरारपदं केवलमेकमेव ॥ ७७० ।।
नैवास्ति काचन भिदा न गुणप्रतीति-
र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः ।
यत्केवलं परमशांतमनतमाद्य-
मानंदमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥
यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।
अजरामरण नित्य सत्यमेतद्वचो मम ॥ ७७२ ॥
न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो
मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि ।