पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


श्रीगुरु:-

शृणुष्वावहितो विद्वन् अद्य ते फलित तपः ।
वाक्यार्थश्वतिमात्रेण सम्यज्ज्ञान भविष्यति ॥ ७०३ ।।
यावन्न तत्त्वपदयोरर्थः सम्यग्विचार्यते ।
तावदेव नृणा बधो मृत्युससारलक्षणः ॥ ७०४ ॥
अवस्था सच्चिदानंदाखडैकरसरूपिणी ।
मोक्ष सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥ ७०५ ॥
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोभवमुक्तये ।
तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ।। ७०६ ।।
अर्था बहुविधाः प्रोक्ता वाक्याना पडितोत्तमैः ।
वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥
वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् ।
तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ }}
शास्त्रार्थकोविदैरर्थो वान्यो लक्ष्य इति द्विधा ।
वाच्यार्थं ते प्रवक्ष्यामि पडितैर्य उदीरितः ॥ ७०९ ॥
समष्टिरूपमज्ञान साभास सत्त्वबृहितम् ।
वियदादिविराडत स्वकार्येण समन्वितम् ॥ ७१० ॥
चैतन्य तदवन्छिन्न सत्यज्ञानादिलक्षणम् ।
सर्वज्ञत्वेश्वरत्वातर्यामित्वादिगुणैर्युतम् ॥ ७११ ।।
जगत्स्रष्टुत्वपातृत्वसंहर्तृत्वादिधर्मकम् ।
सर्वात्मना भासमान यदमेय गुणैश्च तत् ॥ १२ ॥
अव्यक्तमपर ब्रह्म वाच्यार्थ इति कथ्यते ।
नीलमुत्पलमित्यत्र यथा वाक्यार्थसंगतिः ।। ७१३ ॥ .
तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसगतिः ।
पटाद्व्यावर्तते नौल उत्पलेन विशेषितः ।। ७१४ ॥