पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
आत्मबोधः।

लघुः पाठ्यांशः

एवं निरतरकृता ब्रह्मैवास्मीति वासना।
हरत्यविद्याविक्षेपान्रोगानिव रसायनम् ।। ३७ ।।
विविक्तदेश आसीनो विरागो विजितेद्रियः ।
भावयेदेकमात्मान तमनंतमनन्यधीः ।। ३८ ।।
आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।
भावयेदेकमात्मान निर्मलाकाशवत्सदा ||-३९ ।।
रूपवर्णादिकं सर्वं विहाय परमार्थवित् ।
परिपूर्णचिदानंदस्वरूपेणावतिष्ठते ॥ ४० ॥
ज्ञातृज्ञानज्ञेयभेदः परात्मनि न विद्यते ।
चिदानंदैकरूपत्वाद्दीप्यते स्वयमेव सः ॥ ४१ ।।
एवमात्मारणौ ध्यानमथने सतत कृते ।
उदितावगतिज्वाला सर्वज्ञानेधन दहेत् ॥ ४२ ।।
अरुणेनेव बोधेन पूर्वं सतमसे हृते ।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ।।
आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।
तन्नाशे प्राप्तवद्भाति स्वकंठाभरणं यथा ।। ४४ ॥
स्थाणौ पुरुषवद्भ्रांत्या कृता ब्रह्मणि जीवता ।
जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ।। ४५ ॥
तत्वस्वरूपानुभवादुत्पन्न ज्ञानमजसा ।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ।। ४६ ॥
सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिल स्थितम् |
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ।। ४७ ॥
आत्मैवेद जगत्सर्वमात्मनोऽन्यन्न किंचन ।
मृदो यद्वद्धटादीनि स्वात्मान सर्वमीक्षते ॥ ४८ ॥
जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् ।