पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । ततो विजातीयकृतोऽत्र भेदो न विद्यते ब्रह्माणि निर्विकल्पे।।६९२॥ यदास्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्नार्थतस्तस्य मृषात्मकत्वात्तदप्रतीतौ स्वयमेष आत्मा । ब्रह्मैक्यतामेति पृथड् न भाति ततः सजातीयकृतो न भेदः।।६९३॥ घटाभावे घटाकाशो महाकाशी यथा तथा । उपाध्यभावे त्वात्मेैष स्वयं ब्रह्मैव केवलम् ।। ६९४ ॥ पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५॥ अच्छिन्नश्छिन्नवद्भाति पामराणा घटादिना। ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ।। ६९६ ॥ तथैव परम ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रांत्या कल्पितवस्तुना ॥ ६९७ ॥ तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः । अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये | प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुच्यते । तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥ शिष्यः- स्यात्तत्त्वपदयोः स्वामिन्नर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः । ७०० ॥ वान्यैकत्वविवक्षाया विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथ विनिवर्तते ॥ ७०१ ॥ एकत्वकथने का वा लक्षणात्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्व प्रतिपादय ॥ ७०२ ॥