पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् । अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥ ६८० ॥ व्युत्क्रमेण तदुत्पत्तेष्टव्यं सूक्ष्मबुद्धिभिः। प्रतीतस्यास्य जगतः सन्मानत्वं सुयुक्तिभिः ॥ ६८१ ॥ चतुर्विध स्थूलशरीरजात तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्माडमेतत्सकलं स्थविष्ठमीक्षेत पंचीकृतभूतमात्रम् ॥ ६८२ ॥ यत्कार्यरूपेण यदीक्ष्यते तत्तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूत कलशादि सम्यग्विचारित सन्न मृदो बिभिद्यते॥६८३।। अतर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किंचन । ग्रीवादिभद्यत्कलश तदित्थ न वाच्यमेतच मृदेव नान्यत् ॥ ६८४॥ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढेरभिधीयते ततः । नाम्नो हि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे।।६८५॥ तस्माद्धि कार्यं न कदापि भिन्न स्वकारणादस्ति यतस्ततोंऽग । यद्भौतिक सर्वमिद तथैव तद्भूतमात्र न ततोऽपि भिन्नम् ॥६८६॥ तच्चापि पचीकृतभूतजात शब्दादिभि स्वस्वगुणैश्च सार्धम् । वपूषि सूक्ष्माणि च सर्वमेतद्भवत्यपचीकृतभूतमात्रम् ॥ ६८७ ॥ तदप्यपचीकृतभूतजात रजस्तमःसत्त्वगुणैश्च सार्धम् । अव्यक्तमात्र भवति स्वरूपतः साभासमव्यक्तमिदं स्वय च ॥६८८॥ आधारभूत यदखंडमाद्य शुद्ध पर ब्रह्म सदैकरूपम् । सन्मात्रमेवास्त्यथ नो विकल्प सतः पर केवलमेव वस्तु ॥ ६८९ ॥ एकश्चद्रः सद्वितीयो यथा स्यादृष्टेर्दोषादेव पुसस्तथैकम् । ब्रह्मास्त्येतद्बुद्धिदोषेण नाना दोष नष्टे भाति वस्त्वेकमेव ॥६९०॥ रज्जो स्वरूपाधिगमे न सर्पधी रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगत्या तु जगत्प्रतीतिस्तत्रैव लीना तु सह भ्रमेण ॥ ६९१ ॥ भ्रात्योदितद्वैतमतिप्रशात्या सदैकमेवास्ति सदाऽद्वितीयम् ।