पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८७ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यो बिंबभूत आनद स आत्मानदलक्षणः । शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ६५५ ॥ लक्ष्यते प्रतिबिंबेनाभासानदेन बिंबवत् । प्रतिबिंबो बिंबमूलो विना बिंब न सिध्यति ।। ६५६ ॥ यत्ततो बिंब आनद. प्रतिबिंबेन लक्ष्यते । युक्त्यैव पडितजनैर्न कदाप्यनुभूयते ॥ ६५७ ।। अविद्याकार्यकरणसघातेषु पुरोदित । आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः॥ ६५८ ॥ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्मणः । लये सुषुप्तौ स्फुरति प्रत्यगानदलक्षण || ६५९ ॥ न ह्यत्र विषय. कश्चिन्नापि बुद्ध्यादि किंचन । आत्मैव केवलानदमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥ प्रत्यभिज्ञायते सर्वैरेष मुप्तोत्थितैर्जुनै । सुखमात्रतया नात्र संशय कर्तुमर्हसि ॥ ६६१ ॥ त्वयापि प्रत्यभिज्ञात सुखमात्रत्वमात्मनः । सुषुप्तादुस्थितवता सुखमस्वाप्समित्यनु ॥ ६६२ ।। दुःखाभावः सुखमिति यदुक्त पूर्ववादिना । अनाघ्रातोपनिपदा तदसार मृपा वचः ॥ ६६३ ॥ दुःखाभावस्तु लोप्टादौ विद्यते नानुभूयते । सुखलेशोऽपि सर्वेषां प्रत्यक्ष तदिद खलु ॥ ६६४ ॥ सदय ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ! सद्धनोऽय चिद्धनोऽयमानदघन इत्यपि ॥ ६६५ ॥ आनदघनतामस्य स्वरूप प्रत्यगात्मन । धन्यैर्महात्मभिधीरैर्ब्रह्मविद्भिः सदुत्तमैः ।। ६६६ ॥ अपरोक्षतयैवात्मा समाधावनुभूयते ।