पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥ प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तन्निश्चय दूषयतो बुद्धिरात्मा कथं न्विति ।। ५५८ ॥ बुद्धरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ।। ५५९ ॥ अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् | भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥ विज्ञानमयादन्य त्वानदमय पर तथात्मानम् । अन्योऽतर आत्माऽऽनदमय इति वदति वेदोऽपि ॥ ५६१ ॥ दुःखप्रत्ययशून्यत्वादानदमयता मता । अज्ञाने सकल सुप्तौ बुद्धयादि प्रविलीयते ॥ ५६२ ॥ दुःखिनोऽपि सुषुप्तौ त्वानंदमयता ततः । सुप्तौ किचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३ ॥ यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चय युक्ता दूषयन्ति स्वयुक्तिभिः ।। ५६४ ॥ कथमज्ञानमेवात्मा ज्ञान चाप्युपलभ्यते । ज्ञानाभावे कथ विद्युराज्ञोऽहमिति चाज्ञताम् । अस्वाप्स सुखमेवाह न जानाग्यत्र किंचन ॥ ५६५ ॥ इत्यज्ञानमपि ज्ञान प्रबुद्धेषु प्रदृश्यते । प्रज्ञानधन एवानंदमय इत्यपि श्रुतिः ॥ ५६६ ।। प्रब्रवीत्युभयात्मत्वमात्मन स्वयमेव सा । आत्मातश्चिज्जडतनुः खद्योत इव समतः ।। ५६७ ॥ न केवलाज्ञानमयो घटकुड्या दिवज्जडः ।