पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्वान्तसारसंग्रहः। १७७ इद्रियाणा चेष्टयिता प्राणोऽय पचवृत्तिकः । सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति । अह क्षुधावास्तृष्णावानित्याद्यनुभवादपि ॥ ५४५ ॥ श्रुत्यान्योऽतर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्व युक्त नो करणसज्ञानां वापि ॥ ५४६ ॥ इति निश्चयमेतस्य दूषयत्यपरो जडः । भवत्यात्मा कथ प्राणो वायुरेवैप आंतरः ॥ ५४७ ॥ बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः । न हित वाहित वा स्वमन्यद्वा वेद किंचन ॥ ५४८ ॥ जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भान मनसि स्थित सुप्ते न दृश्यते ॥ ५४९ ॥ मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ।। ५५० ॥ सकल्पवानह चिंतावानहं च विकल्पवान् । इत्याधतुमवादन्योऽन्तर आत्मा मनोमय ॥ ५५१ ॥ इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जड़ः ।। ५५२ ।। कथ मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्य करण न स्वय तु प्रवर्तते ।। ५५३ ॥ करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति । आत्मा स्वतत्रः पुरुपो न प्रयोज्यः कदाचन ।। ५५४ ॥ अह कर्तास्म्यह भोक्ता सुखीत्यनुभवादपि ।, बुद्धिरास्मा भवत्येव बुद्धिधर्मो ह्यहकृतिः ।। ५५५ ॥ अन्योऽतर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्न विज्ञानमय कर्तृरूपमात्मानम् ।। ५५६ ।।