पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥५३२॥ औपचारिकमात्मत्व पुत्रे तस्मान्न मुख्यतः । अहपदप्रत्ययार्थों देह एव न चेतरः ॥ ५३३ ॥ प्रत्यक्षः सर्वजतूनां देहोऽहमिति निश्चयः । एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥ पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः । आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥ तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः । देह आत्मा कथ नु स्यात्परतंत्रो ह्यचेतनः ॥ ५३६ ॥ इंद्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् | आश्रयश्चक्षुरादीनां गृहवगृहमेधिनाम् ॥ ५३७ ॥ बाल्यादिनानावस्थावाञ्शुक्लंशोणितसभवः । अतः कदापि देहस्य नात्मत्वमुपपद्यते ।। ५३८ ॥ बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः । इंद्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९ ॥ इंद्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् | एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ।। ५४० ॥ यतस्तस्मादिंद्रियाणां युक्तमात्मत्वमित्यमुम् । निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥ ५४१ इंद्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेश्चेतनत्व न हीक्ष्यते ॥ ५४२ ॥ श्रुत्याधिदेवतामेव इंद्रियेषूपचर्यते । न तु साक्षादिंद्रियाणां चेतनत्वमुदीर्यते ॥ ५४३ ॥ अचेतनस्य दीपादेरर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥