पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । १७५ आत्मानात्मविवेकार्थं विवादोऽय निरूप्यते । येनात्मानात्मनोस्तत्व विविक्त प्रस्फुटायते ॥ ५२० ॥ मूढा अश्नुतेवढान्ता. स्वय पडितमानिनः । ईशप्रसादरहिताः सहरोश्च बहिर्मुखाः ॥ ५२१ ॥ विवदन्ति प्रकारं त शृणु वक्ष्यामि सादरम् । अत्यतपामरः कश्चित्पुत्र आत्मेति मन्यते ।। ५२२ ॥ आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽह नष्टे नष्टोऽहमित्यतः ।। ५२३ ॥ अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि । आत्मा वै पुत्रनामासीत्येव च वदति श्रुतिः ।। ५२४ ॥ दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाकुरवदीक्षणात् ॥ ५२५ ॥ अतोऽय पुत्र आत्मेति मन्यते भ्रातिमत्तम । तन्मत दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥ प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ।। ५२७ ॥ पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिना प्रीतिरिष्यते । प्रदीप्ते भवने पुत्र त्यक्त्वा जतुः पलायते ॥ ५२८ ॥ तं विक्रीणाति देहार्थं प्रतिकूल निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ।। गुणरूपादिसादृश्य दीपवन्न सुते पितुः । अव्यगाज्जायते व्यगः सगुणांदपि दुर्गुणः ॥ ५३० ॥ आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च। पुत्रस्य पितृवद्रेहे सर्वकार्येषु वस्तुषु ॥ ५३१॥ स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते । . 1