पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११७४ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ó जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७ ।। तेन बंधोऽस्य जीवस्य संसारोऽपि च तत्कृतः । संप्राप्तः सर्वदा यत्र दुःख भूय स ईक्षते ॥ ५०८ ॥ एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः । अध्यासमूलमज्ञानमाहुरावृत्तिलक्षणम् ॥ ५०९ ॥ अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥ कर्मणा जायते जतु कर्मणैव प्रलीयते । कर्मणः कार्यमेवैपा जन्ममृत्युपरंपरा ॥ ५११ ॥ नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् । अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥ ययेन वर्धते तेन नाशस्तस्य न सिध्यति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥ नाशकत्व तदुभयो को नु कल्पयितु क्षमः । सर्व कर्माविरोध्येव सदाऽज्ञानस्य सर्वदा ॥ ५१४ ।। ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति । यस्य प्रध्वस्तजनको यत्सयोगोऽस्ति तत्क्षणे ।। ५१५ ।। तयोरेव विरोधित्व युक्त भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ।। ५१६ ॥ अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते । न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥ तस्मादज्ञानविच्छित्त्यै ज्ञान सपादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञान सिध्यति नान्यथा || ५१८ ।। युक्त्याऽऽत्मानात्मनोस्तस्मात्करणीयं विवेचनम् | अनात्मन्यात्मताबुद्धिग्रथिर्येन विदीर्यते ॥ ५१९ ॥