पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
आत्मबोधः।


पंचीकृतमहाभूतसंभवं कर्मसंचितम् ।'
शरीरं सुखदुःखानां भोगायतनमुच्यते ।। १२ ॥
पंचप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।
अपंचीकृतभूतोत्थं सूक्ष्मांग भोगसाधनम् ॥ १३ ॥
अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुन्यते ।
उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥
पंचकोशादियोगेन तत्तन्मय इव स्थितः ।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥
वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।
आत्मानमान्तरं शुद्धं विविंन्यात्तडुलं यथा ॥ १६ ॥
सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते।
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिंबवत् ॥ १७ ॥
देहोद्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।
तद्वृत्तिसाक्षिण विद्यादात्मान राजवत्सदा ॥ १८ ॥
व्यापृतेष्विंद्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९ ॥
आत्मचैतन्यमाश्रित्य देहेद्रियमनोधियः ।
स्वक्रियार्थेषु वर्तन्ते सूर्यालोक यथा जनाः ॥ २० ॥
देहेद्रियगुणान्कर्माण्यमले सच्चिदात्मनि ।
अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ।। २१ ॥
अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । '
कल्प्यन्तेऽम्बुगते चंद्रे चलनादि यथांभसः ॥ २२ ॥
रागेच्छासुखदुःखादि बुद्रौ सत्या प्रवर्तते ।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥
प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता ।