पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः । विराट्स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥ चतुर्विधं भूतजात तत्तजातिविशेषतः। नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४०॥ साभास व्यष्ट्युपहित तत्तादात्म्यमुपागतम् | चैतन्य विश्व इत्याहुर्वेदान्तनयकोविदाः ।। ४४१ ।। विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ।। व्यष्टिरेपास्य विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥ देहोऽय पितृभुक्तानविकारान्छुल्लशोणितात् । जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ।। ४४४ ।। तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥ आत्मनः स्थूलभोगानामेतदायतनं विदुः । शब्दादिविषयान्भुक्ते स्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इद्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेद्रियमनोयुक्तो भोक्तेत्या मनीषिणः ॥ ४४७ ।। एकादशद्वारवतीह देहे सौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगानुपाधिसंस्थो बुभुजेऽयमात्मा ॥४४८॥ ज्ञानेद्रियाणि निजदैवतचोदितानि कर्मेद्रियाण्यपि तथा मनआदिकानि | स्वस्वप्रयोजनविधौ नियतानि सन्ति यत्नेन किंकरजना इव तं भजन्ते ॥ ४४९ ॥