राजसी तु क्रियाशक्ति तमःशाक्त जडात्मिकाम् ।
प्रकाशरूपिणी सत्त्वशक्ति प्राहुमहर्षयः ।। ३८० ॥
एते प्राणादयः पच पंचकर्मेद्रियैः सह ।
भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥
यद्यन्निष्पाद्यते कर्म पुण्य वा पापमेव वा ।
वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥
वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।
तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥
प्राणकर्मेंद्रियैर्देहः प्रेर्यमाणः प्रवर्तते ।
नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥
कोशत्रय मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।
अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥
लिगमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।
सर्व लिंगवपुर्जातमेकधीविपयत्वतः ॥ ३८६ ॥
समष्टिः स्यात्तरुगणः सामान्येन वन यथा ।
एतत्समष्ट्युपहित चैतन्य सफल जगुः ॥ ३८७ ।।
हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पडिताः ।
हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥
हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः ।
समस्तलिगदेहेषु सूत्रंवन्मणिपक्तिषु ।
व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥
नैकधीविषयत्वेन लिंग व्यष्टिर्भवत्यथ ।
यदेतद्वयष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥
चैतन्य तैजस इति निगदन्ति मनीषिणः ।
तेजोमयान्तःकरणोपाधित्वेनैव तैजसः ॥ ३९१ ॥