पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शुद्धेन मोक्षो मलिनेन बंधो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥३५८॥ रजस्तमोभ्या मलिन त्वशुद्धमज्ञानज सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वाज्जडत्वमोहालसताप्रमादैः ।। तिरस्कृत सन्न तु वेत्ति वास्तव पदार्थतत्त्व ह्युपलभ्यमानम् ॥३५९॥ रजोदोषैर्युक्त यदि भवति विक्षेपकगुणैः प्रतीप कामाद्यैरनिशमभिभूत व्यथयति । कथचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृश मनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥ ततो मुमुक्षुर्भवबधमुक्त्यै रजस्तमोभ्या च तदीयकार्यैः । वियोज्य चित्त परिशुद्धसत्त्व प्रिय प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ।। गर्भावासजनिप्रणाशनजराव्याध्यादिपु प्राणिना यदुख परिदृश्यते च नरके तच्चितयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशा विमुच्याभित- श्चित्तप्रथिविमोचनाय सुमतिः सत्त्व समालबताम् ॥ ३६२ ।। यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्त प्रसादमधिगच्छति ।। ३६३ ॥ आसुरी सपद त्यक्त्वा भजेद्यो दैवसपदम् । मोक्षककाक्षया नित्य तस्य चित्त प्रसीदति ॥ ३६४ ।। परद्रव्यपरद्रोहपरनिदापरस्त्रियः । नालबते मनो यस्य तस्य चित्त प्रसीदति ॥ ३६५ ॥ आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति । सुख दुःख विवेकेन तस्य चित्त प्रसीदति ।। ३६६ ॥ अत्यत श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजत्यनिश क्षांतस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥ शिष्टान्नमीशार्चनमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् ।