पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

॥ आत्मबोध ॥


१३
आत्मबोधः।

तपोभि क्षीणपापानां शान्तानां वीतरागिणाम् ।
मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥१॥
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥२॥
अविरोधितया कर्म नाविद्यां विनिवर्तयेत् ।
विद्याऽविद्यां निहन्त्येव तेजस्तिमिरसघवत् ||३||
अविच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः ।
स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥४॥
अज्ञानकलुष जीव ज्ञानाभ्यासाद्विनिर्मलम् ।
कृत्वा ज्ञान स्वय नश्येज्जल कतकरेणुवत् ॥५॥
ससार स्वप्नतुल्यो हि रागद्वेषादिसकुल. ।
स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥६॥
तावत्सत्यं जगद्भाति शुक्तिकारजत यथा ।
यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥७॥
उपादानेऽखिलाधारे जगन्ति परमेश्वरे ।
सर्गस्थितिलयान्यान्ति बुद्धदानीव वारिणि ॥८॥
साच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।
व्यक्त्यो विविधाः सर्वा हाटके कटकादिवत् ॥९॥
यथाऽकाशो ह्र्षीकेशो नानोपाधिगतो विभुः ।
तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥१०॥
नानोपाधिवशादेव जातिनामाश्रमादयः ।।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ।। ११ ।।