पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


चिंतनं च मनोधर्मः संकल्पादिर्यथा तथा ।
अंतर्भावो मनस्यैव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥
देहादावहमित्येव भावो दृढतरो धियः ।
दृश्यतेऽहंकृतस्तस्मादतर्भावोऽत्र युज्यते ॥ ३४८ ॥
तस्मादेव तु बुद्धेः कर्तृत्व तदितरस्य करणत्वम् |
सिध्यत्यात्मन उभयाद्विद्यासंसारकारणं मोहात् ॥ ३४९ ॥
विज्ञानमयकोशः स्याद्बुद्धिर्ज्ञानेद्रियैः सह ।
विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥
विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते ।
अयं महानहंकारवृत्तिमान्कर्तृलक्षणः ।
सर्वसंसारनिर्वोढा विज्ञानमयशब्दभाक् ॥ ३५१ ॥
अहं ममेत्येव सदाभिमानं देहेंद्रियादौ कुरुते गृहादौ ।
जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च सुखी च दुःखी।।३५२
स्ववासनाप्रेरित एव नित्य करोति कर्मोभयलक्षण च ।
भुंक्ते तदुत्पन्नफल विशिष्ट सुख च दुःख च परत्र चात्र।।३५३॥
नानायोनिसहस्रेषु जायमानो मुहर्मुहुः ।
म्रियमाणो भ्रमत्येष जीवः संसारमडले || ३५४ ।।
मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह ।
प्राचुर्य मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥
चिंताविषादहर्पाद्याः कामाद्या अस्य वृत्तयः ।
मनुते मनसैवैष फल कामयते बहिः ।
यतते कुरुते भुंक्ते तन्मनः सर्वकारणम् ।। ३५६ ॥
मनो ह्यमुष्य प्रणवस्य हेतुरतर्वहिश्चार्थमलेन वेत्ति |
शृणोति जिघ्रत्यमुनैव चेक्षते वक्ति स्पृशत्यत्ति करोति सर्वम् ॥३५७।।
बंधश्च मोक्षो मनसैव पुसामर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति ।