पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते ।
असर्पभूते रज्जादौ सर्पत्वारोपण यथा ॥ २९७ ।।
वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् ।
इदमारोपित यत्र भाति खे नीलतादिवत् ।। २९८ ॥
तत्कारण यदज्ञानं सकार्य सद्विलक्षणम् ।
अवस्त्वित्युन्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥
अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् |
न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥
शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा ।
अवस्तुसज्ञित यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥
सदसद्भयामनिर्वान्यमज्ञान त्रिगुणात्मकम् ।
वस्तु तत्त्वावबोधकबाध्य तद्भावलक्षणम् ॥ ३०२ ॥
मिथ्यासबधतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति ।
मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३ ।।
सद्भावे लिंगमेतस्य कार्यमेतञ्चराचरम् ।
मान श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च || ३०४ ॥
अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते ।
तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ।। ३०५ ।।
सतो भिन्नमभिन्न वा न दीपस्य प्रभा यथा |
न सावयवमन्यद्वा बीजस्यांकुरवत्क्वचित् ॥ ३०६ ।।
अत एतदनिर्वाच्यमित्येव कवयो विदुः ।
समष्टिव्यष्टिरूपेण द्विधाज्ञान निगद्यते ॥ ३०७ ॥
नानात्वेन प्रतीतानामज्ञानानामभेदतः ।
एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ।।
इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा ।