पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


निद्रामोहवशादुपागतसुख दुःख च किं नु त्वया
 सत्यत्वेन विलोकित क्वचिदपि हि प्रबोधागमे || २८४ ॥
नाशेपलोकैरनुभूयमानः प्रत्यक्षतोऽय सकलप्रपचः ।
कथ मृपा स्यादिति शकनीय विचारशून्येन विमुह्यता त्वया ॥ २८५
दिवाधदृष्टेस्तु दिवाधकारः प्रत्यक्षसिद्धोऽपि स किं यथार्थः ।
तद्वद्धमेणावगतः पदार्थो भ्रान्तस्य सत्यः सुमतेर्मृपैव ॥ २८६ ॥
घटोऽयमित्यत्र घटाभिधान' प्रत्यक्षतः कश्चिदुदेति दृष्टेः ।
विचार्यमाणे स तु नास्ति तत्र मृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥
प्रादेशमात्रः परिदृश्यतेऽर्क शास्त्रेण संदर्शितलक्षयोजनः ।
मानातरेण कचिदेति वाधा प्रत्यक्षमप्यत्र हिन व्यवस्था ॥ २८८ ।।
तस्मात्त्वयीद भ्रमत' प्रतीत मृपैव नो सत्यमवेहि साक्षात् ।
ब्रह्म त्वमेवासि सुखस्वरूप त्वत्तो न भिन्न विचिनुष्व वुद्धौ ॥ २८९ ॥
लोकान्तरे वात्र गुहान्तरे वा तीर्थान्तरे कर्मपरपरातरे ।
शास्त्रान्तरे नास्त्यनुपश्यतामिह स्वय पर ब्रह्म विचार्यमाणे ॥ २९० ॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति ।
गोप कक्षगत छाग यथा कूपेषु दुर्मति ॥ २९१ ॥
स्वमात्मान पर मत्वा परमात्मानमन्यथा ।
विमृश्यते पुनः स्वात्मा वहि कोशेषु पडितै ॥ २९२ ।।
विस्मृत्य वस्तुनरतत्त्वमध्यारोप्य च वस्तुनि ।
अवस्तुता च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥
आत्मानात्मविवेक ते वक्ष्यामि शृणु सादरम् ।
यस्य श्रवणमात्रेण मुच्यतेऽनात्मवधनात ॥ २९४ ॥
इत्युक्त्वाभिमुखीकृत्य शिष्य करुणया गुरु' ।
अध्यारोपापवादाभ्या निष्प्रपच प्रपचयन् ॥ २९५ ॥
सम्यक्प्रबोधयत्तत्त्व शास्त्रदृष्टेन वर्त्मना ।
सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥