पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः ।
ब्रह्मत्वमपि नित्यत्व परमानंदता कथम् || २७४ ॥
क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।
आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥
किमज्ञान तदुत्पन्नभयत्यागोऽपि वा कथम् ।
किमु ज्ञान तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥
सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् ।
प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥

श्रीगुरु:-

धन्यः कृतार्थरत्वमहो विवेकः शिवप्रसादरतव विद्यते महान् |
विसृज्य तु प्राकृतलोकमार्ग ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७
शिवप्रसादेन विना न सिद्धि' शिवप्रसादेन विना न बुद्धिः ।
शिवप्रसादेन विना न युक्तिः शिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥
यस्य प्रसादेन विमुक्तसगा' शुकादयः ससृतिबधमुक्ताः ।
तस्य प्रसादो बहुजन्मलभ्यो भक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥
विवेको जतूनां प्रभवति जनिष्वेव बहुपु
 प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् ।
यतस्तस्मादेव त्वमपि परमार्थावगमने
 कृतारभ' पुंसामिदामह विवेकरय तु फलम् ॥ २८१ ॥
मर्त्यत्वसिद्धरपिपुरस्वसिद्धेविंगत्वसिद्धेश्च विवेकसिद्धेः ।
वदान्त मुख्य फलमेव मोक्ष व्यर्थं समस्त यदि चेन्न मोक्षः ॥२८२॥'
प्रश्न- समीचीनतरस्तवाय यदात्मतत्त्वावगमे प्रवृत्तिः ।
सतस्तवैतत्सकल समूल निवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥
मर्त्यत्व त्वयि कल्पित भ्रमवशात्तेनैव जन्मादय.
 तत्सभावितमेव दुःखमपि ते नो वस्तुतस्तन्मृपा ।