वदन्तमेव तं शिप्य दृष्ट्यैव दयया गुरुः ।
दद्यादभयमेतस्मै मा भैटेति मुहर्मुहुः ॥ २६५ ॥
विद्वन्मृत्युभय जहीहि भवतो नास्त्येव मृत्युः कचि-
नित्यस्य द्वयवर्जितस्य परमानदात्मनो ब्रह्मणः ।
भ्रात्या किंचिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते
मां त्राहीति हि सुप्तवत्प्रलपन शून्यात्मक ते मृपा || २६६ ।।
निद्रागाढतमोवृत' किल जन. स्वप्ने भुजंगादिना
अस्त स्व समवेक्ष्य यत्प्रलपति त्रासाइतोऽस्मीत्यलम् ।
आप्तेन प्रतिबोधित करतलनाताडय पृष्ट स्वय
किंचिन्नेति बदत्यमुप्य वचन स्यात्तकिमर्थं वद ॥ २६७ ।।
रजोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प-
भावः पुमानयमहिर्वसतीति मोहात् ।
आक्रोगति प्रतिबिभेति च कपते त-
न्मिध्यैव नात्र भुजगोशति विचार्यमाणे ।। २६८ ॥
तद्वत्त्वयाप्यात्मन उक्तमतज्जन्माप्ययव्याधिजरादिदुःखम्
मृषैव सर्व भ्रमकल्पित ते सम्यग्विचार्यात्मनि मुच भीतिम् ॥ २६९॥
भवाननात्मनो वर्मानात्मन्यारोप्य शोचति ।
तदज्ञानकृत सर्व भय त्यक्त्वा सुखी भव ।। २७० ॥
शिष्यः-
श्रीमद्भिरुक्तं सकल मृपेति दृष्टान्त एव युपपद्यते तत् ।
दाष्टंतिके नैव भवादिदुःख प्रत्यक्षतः सर्वजनप्रसिद्धम् ।। २७१ ।।
प्रत्यक्षेणानुभूतार्थ. कथ मिथ्यात्वमर्हति ।
चक्षुषो विषय कुम कथ मिथ्या करोम्यहम् ॥ २७२ ।।
विद्यमानस्य मिथ्यात्वं कथ नु घटत प्रभो ।
प्रत्यक्ष खलु सर्वेपा प्रमाण प्रस्फुटार्थकम् ॥ २७३ ।।