पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


भक्तैदिकलक्षणेन विधिना सतुष्ट ईशः स्वयम् ।
साक्षाच्छीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुः
तत्त्वं साधु विबोध्य तारयति तान्ससारदुःखार्णवात् ॥ २५४ ॥
अविद्याहृदयन्नथिविमोक्षोऽपि भवेद्यतः ।
तमेव गुरुरित्यागुरुशब्दार्थवेदिनः ।। २५५ ॥
शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।
उभयोरंतर किंचिन्न द्रष्टव्य मुमुक्षुभिः ॥ २५६ ॥
बंधमुक्तं ब्रह्मनिष्ठ कृतकृत्य भजेद्गुरुम् |
यस्य प्रसादात्ससारसागरो गोष्पदायते ॥ २५७ ॥
शुश्रूषया सदा भक्त्या प्रणामविनयोतिभिः ।
प्रसन्न गुरुमासाद्य प्रष्टव्य ज्ञेयमात्मनः ॥ २५८ ॥
भगवन्करुणासिंधो भवसिंधोर्भवास्तरिः ।
यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥
जन्मांतरकृतानतपुण्यकर्मफलोदयः ।
अद्य सनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥
संप्रीतिमक्ष्णोर्वदनप्रसादमानंदमतःकरणस्य सद्यः ।
विलोकनं ब्रह्मविदस्तनोति छिनत्ति मोह सुगति व्यनक्ति ॥ २६१ ॥
हुताशनाना शशिनामिनानामप्यर्बुद वापि न यन्निहंतुम् ।
शक्नोति तद्ध्वान्तमनंतमांतरं हन्त्यात्मवेत्ता सकृदक्षिणेन।। २६२ ॥
दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे
 घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे ।
कर्मोत्तुगतरंगभगनिकरैराकृष्यमाणो मुहुः
 यातायातगतिघ्रमेण शरण किंचिन्न पक्ष्याम्यहम् ।। २६३ ॥
केन वा पुण्यशेपेण तव पादांबुजद्वयम् |
दृष्टवानास्म मामात मृत्योस्त्राहि दयादृशा || २६४ ॥