पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
अपरोक्षानुभूतिः।

यथा तिष्ठन्ति ब्रह्माद्या सनकाद्याः शुकादयः ॥१४॥
कार्ये कारणताऽऽयाता कारणे न हि कार्यता।
कारणत्वं ततो गच्छेत्कार्याभावे विचारतः ||१३५।।
अथ शुद्ध भवेद्वस्तु यद्वै वाचामगोचरम् ।
द्रष्टव्य मृद्धटेनैव दृष्टान्तेन पुनः पुनः ।।१३६॥
अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
उदेति शुद्धचित्तानां वृत्तिज्ञान ततः परम् ||१३७॥
कारणं व्यतिरेकेण पुमानादौ विलोकयेत् |
अन्वयेन पुनस्ताद्धि कार्ये नित्य प्रपश्यति ॥१३८॥
कार्ये हि कारण पश्येत्पश्चात्कार्य विसर्जयेत् ।
कारणत्वं ततो नश्येदवशिष्ट भवेन्मुनिः ॥१३९।।
भावित तीव्रवेगेन वस्तु यन्निश्चयात्मना ।
पुमांस्तद्धि भवेच्छीघ्र ज्ञेय भ्रमरकीटवत् ।।१४०।।
अदृश्यं भावरूपं च सर्वमेतच्चिदात्मकम् ।
सावधानतया नित्य स्वात्मान भावयेद्बुधः ।।१४१॥
दृश्यं ह्यदृश्यता नीत्वा ब्रह्माकारेण चिंतयेत् ।
विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ।।१४२॥
एभिरगैः समायुक्तो राजयोग उदाहृतः ।
किंचित्पक्वकषायाणां हठयोगेन सयुतः ॥१४३॥
परिपक्व मनो येषां केवलोऽयं च सिद्धिदः |
गुरुदैवतभक्ताना सर्वेषां सुलभो जवात् ||१४४||

इति अपरोक्षानुभूतिः समाप्ता ।।