पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः ।
इत्याशया मूढधियां मतिर्या सैपातिमन्दाभिमता मुमुक्षा ॥ २३ ॥
जन्मानेकसहस्रेषु तपसाऽऽराधितेश्वरः ।
तेन निःशेपनिर्धूतहृदयस्थितकल्मपः ॥ २३३ ॥
शास्त्रविद्गुणदोपज्ञो भोन्यमाने विनिस्पृहः ।
नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढवतः ॥ २३४ ॥
निष्टप्तमग्निना पात्रमुद्वास्य स्वरया यथा ।
जहाति गेहं तद्वन्च तीनमोक्षेन्छया द्विजः ॥ २३५ ॥
स एव सद्यस्तरति ससृतिं गुर्वनुग्रहात् ।
यस्तु तीवमुमुक्षुः स्यात्स जीवनेव मुन्यते ॥ २३६ ॥
जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।
चतुर्थः कल्पकोटया वा नैव बधाद्विमुच्यते ॥ २३७ ॥
नृजन्म जतोरतिदुर्लभ विदुस्ततोऽपि पुंस्त्व च ततो विवेकः ।
लब्ध्वा तदेतत्रितय महात्मा यतेत मुक्त्यै सहसा विरक्तः ॥२३८
पुत्रमित्रकलबादिमुखं जन्मनि जन्मनि ।
मर्त्यत्वं पुरुपत्वं च विवेकश्च न लभ्यते ।। २३९ ॥
 लब्ध्वा सुदुर्लभतरं नरजन्म जंतु-
  स्तत्रापि पौरुषमतः सदसद्विवेकम् ।
 सप्राप्य चैहिकसुखाभिरतो यदि स्या-
  द्विक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥
खादते मोदते नित्य शुनकः सूकरः खरः।
तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ।।
यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।
याचन्न धीविपयेति यावन्मृत्यु न पश्यति ।। २४२ ॥
तावदेव नरः स्वस्थः सारग्रहणतत्परः ।