पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
right
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥१४॥
कथमन्योन्यसापेक्षा कथं वापि समुच्चयः ।
यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥
सहयोगो न घटते तथैव ज्ञानकर्मणोः ।
किमूपकुर्याज्ञानस्य कर्मस्वप्रतियोगिनः ॥
यस्य सनिधिमात्रेण स्वय न स्फूर्तिमृच्छति ॥ १८६ ॥
कोटींधनाद्रिचालितोऽपि वहिरर्कस्य नाहत्युपकर्तुमीपत् ।
यथा तथा कर्मसहस्रकोटिनिस्य किं नु स्वयमेव लीयते १९
एकक श्रयौ हस्तौ कर्मण्यधिकृतावुभौ ।
सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥
का कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते ।
न तथा वस्तुनो ज्ञान कर्तृतत्र कदाचन ॥ १८९ ॥
यथा वस्तु तथा ज्ञान प्रमाणेन विजायते ।
नापेक्षते च यत्किंचित्कर्म वा युक्तिकौशलम् ॥ १९० ॥
ज्ञानस्य वस्तुतत्रत्वे सशयाद्युदय. कथम् ।
अतो न वारतवं ज्ञानमिति नो शक्यतां बुधैः ॥ १९१ ॥
प्रमाणासौष्ठववृतं सशयादि न वास्तवम् ।
श्रुतिप्रमाणसुष्टुत्वे ज्ञान भवति वास्तवम् ॥ १९२ ॥
वस्तु तावत्पर ब्रह्म नित्यं सत्य ध्रुवं विभु ।
श्रुतिप्रमाणे तज्ञान स्यादेव निरपेक्षकम् ॥ १९३ ॥
रूपज्ञान यथा सम्यग्दृष्टौ सत्या भवेत्तथा ।
श्रुतिप्रमाणे सत्येव ज्ञान भवति वास्तवम् ॥ १९४ ॥
न कर्म यत्किंचिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः ।
ज्ञानं तथैव श्रवणादिजन्य वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ।।
कर्तृतंत्र भवेत्कर्म कर्मतंत्र शुभाशुभम् |