पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
सर्ववेदान्तसिद्धान्तसारसंग्रहः


केवलो निर्गुणश्चेति नैगुण्यं श्रूयते यतः || १६० ॥
सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः ।
येन केन विकारित्व स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥
निष्कलं निष्क्रिय शान्त निरवद्य निरजनम् ।
इत्येव वस्तुनस्तत्त्व श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥
तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन ।
कर्मसाध्यं त्वनित्य हि ब्रह्म नित्य सनातनम् ॥ १६३ ॥
देहादिः क्षीयते लोको यथैव कर्मणा चितः ।
तथैवामुष्मिको लोको सचित. पुण्यकर्मणा ॥ १६४ ॥
कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा ।
तस्मादनित्ये स्वर्गादौ पडितः को नु मुह्यति ॥ १६५ ॥
जगद्धेतोस्तु नित्यत्व सर्वेषामपि समतम् ।
जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥
ऐतदात्म्यमिद सर्व तत्सत्यमिति च श्रुतिः ।
अस्यैव नित्यता ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥
न कर्मणा न प्रजया धनेनेति स्वय श्रुतिः ।
कर्मणो मोक्षहेतुत्व साक्षादेव निषेधति ॥ १६८ ॥
प्रत्यन्ब्रह्मविचारपूर्वमुभयोरेकत्ववोधाद्विना
कैवल्य पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् ।
न स्नानैरपि कीर्तनैरपि जपै! कृच्छ्रचांद्रायणै-
नॊ वाप्यध्वरयज्ञदाननिगमों मत्रतत्रैरपि ॥ १६९ ॥
ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते ।
ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥
विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिन ।
तद्भावेन्छोरनित्यार्थे तत्सामन्ये कुतोऽरति ॥ १७१ ॥