पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


 संमोहावरणेन गोपनवतः ससारकारागृहा-
  निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु १४८॥
कामांधकारेण निरुद्धदृष्टिर्मुहत्यसत्यप्यबलास्वरूपे ।
न ह्यधदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥४९॥
श्लेष्मोद्गारि मुखं स्त्रवन्मलवती नासाश्चमल्लोचनं
 स्वेदस्रावि मलाभिपूर्णमभितो दुर्गंधदुष्ट वपुः ।
अन्यद्वक्तुमशक्यमेव मनसा मन्तु कचिनार्हति
 स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥५॥
दूरादवेक्ष्याग्निशिखा पतंगो रम्यत्वबुद्धया विनिपत्य नश्यति ।
यथा तथा नष्टहगेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥५१॥
कामेन कान्तां परिगृह्य तहजनोऽप्यय नश्यति नष्टदृष्टिः ।
मांसास्थिमज्जामलमूत्रपात्रं स्त्रिय स्वय रम्यतयैव पश्यति ॥५२॥
काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥५३॥
यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति ।
किंचित्समालोक्य तु तद्विराम सुखात्मना पश्यति सूढलोक' ॥५४||
यमस्य कामस्य च तारतम्य विचार्यमाणे महदस्ति लोके ।
हित करोत्यस्य यमोऽप्रियः सन्कामत्वन कुरुते प्रियः सन् ॥५५॥
यमोऽसतामेव करोत्यनर्थं सता तु सौख्यं कुरुते हितः सन् ।
“कामः सतामेव गति निधन्करोत्यन) हसता नु का कथा ॥५६॥..
विश्वस्य वृद्धि स्वयमेव कांक्षन्मवर्तक कामिजन ससर्ज ।
तेनैव लोकः परिमुह्यमानः प्रवर्धते चद्रमसेव चाब्धिः ॥५७॥
 कामो नाम महाञ्जगद्रमयिता स्थित्वांतरंगे स्वयं
  स्त्रीपुसावितरेतरांगकगुणैर्हासैश्च भावैः स्फुटम् ।
 अन्योन्यं परिमोह्य नैजतमसा प्रेमानुवधेन तौ