पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
अपरोक्षानुभूतिः


गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥
आदावंते च मध्ये च जनो यस्मिन्न विद्यते ।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११० ॥
कलनात्सर्वभूतानां ब्रह्मादीनां निमेषतः ।
कालशब्देन निर्दिष्टो ह्यखडानद अद्वयः ॥ १११ ॥
सुखेनैव भवेद्यस्मिन्नजस्र ब्रह्मचिंतनम् |
आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ ११२ ।। ..
सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् ।
यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासन विदुः ॥ ११३ ॥
यन्मूलं सर्वभूताना यन्मूलं चित्तबधनम् ।
मूलबधः सदा सेव्यो योगोऽसौ राजयोगिनाम् || ११४ ॥
अगानां समतां विद्यात्समे ब्रह्मणि लीयते ।
नो चैन्नैव समानत्वमृजुत्व शुष्कवृक्षवत् ॥ ११५ ॥
दृष्टिं ज्ञानमयीं कृत्वा पश्येब्रह्ममय जगत् ।
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ ११६ ॥
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ११७ ॥
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
विरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८ ॥
निषेधन प्रपंचस्य रेचकाख्य' समीरणः ।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९ ॥
ततस्तद्वृत्तिनैश्चल्यं कुंभक' प्राणसयमः |
अथ चापि प्रबुद्धानामज्ञाना घ्राणपीडनम् ॥ १२० ॥
विषयेष्वात्मतां दृष्ट्वा मनसाश्चिति मज्जनम् ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१ ॥