पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः ।।

अखंडानंदसबोधो वंदनाद्यस्य जायते ।
गोविंदं तमहं वदे चिदानदतनु गुरुम् ॥ १ ॥
अखंड सच्चिदानदमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥
यदालंबो दरं हन्ति सतां प्रत्यूहसभवम् ।
तदालबे दयालब लंबोदरपदांबुजम् ॥ ३ ॥
वेदान्तशास्त्रसिद्धान्तसारसग्रह उन्यते ।
प्रेक्षावतां मुमुक्षूणा सुखबोवोपपत्तये ॥ ४ ॥
अस्य शास्त्रानुसारित्वादनुबंधचतुष्टयम् ।
यदेव मूल शास्त्रस्य निर्दिष्ट तदिहोन्यते ।। ५ ।।
अधिकारी च विपयः सबधश्च प्रयोजनम् ।
शास्त्रारभफल प्राहुरनुवधचतुष्टयम् ॥ ६ ॥
चतुर्मिः साधनैः सम्यक्संपन्नो युक्तिदक्षिणः
मेधावी पुरुषो विद्वानधिकार्यत्र संमतः ॥ ७ ॥
विषयः शुद्धचैतन्यं जीवबौक्यलक्षणम् ।
यत्रैव दृश्यते सर्ववेदान्ताना समन्वयः ॥ ८॥
एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः ।
संवध. कथ्यते सद्भिर्योध्यवोधकलक्षणः ॥ ९ ॥
ब्रह्मात्मैकत्वविज्ञान सन्तः प्राहुः प्रयोजनम् ।
येन निःशेषससारवंधात्सद्यः प्रमुच्यते ।। १० ॥
प्रयोजन संप्रवृत्ते कारण फललक्षणम् ।
प्रयोजनमनुदिइय न मदोऽपि प्रवर्तते ।। ११ ॥
साधनचतुष्टयसंपत्तिर्यस्यास्ति धीमतः पुंसः ।