पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ स्वात्मप्रकाशिका ॥
१२३
स्वात्मप्रकाशिका।

जगत्कारणमज्ञानमेकमेव चिदन्वितम् ।
एक एव मनः साक्षी जानात्येवं जगत्रयम् ॥ १ ॥
विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम् ।
नथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ २ ॥
विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।
इति संशयपाशेन बद्धोऽहं छिञ्द्धि संशयम् ॥ ३ ॥
एवं शिष्यवचः शृत्वा गुरुराहोत्तरं स्फुटम् ।
नाज्ञानं नच बुद्धिश्च न जगन्न च साक्षिता ॥ ४ ॥
गन्धमोक्षादयः सर्वे कृता सत्येऽद्वये त्वयि ।
भातीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत् ॥ ५ ॥
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।
प्रपंचाधाररूपेण वर्तते सज्जगन्न हि ॥ ६ ॥
यथेक्षुमभिसंव्याप्य शर्करा वर्तते यथा ।
आश्चर्यब्रह्मरूपेण त्वं व्याप्तोऽसि जगत्त्रयम् }]॥ ७ ॥
मरुभूमौ जलं सर्वं मरुभूमात्रमेव वा ।
जगत्त्रयमिदं सर्वं चिन्मात्रं सुविचारतः ॥ ८ ॥
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिताः ।
बुद्बुदादितरंगान्ता विकाराः सागरे यथा ॥ ९ ॥
तरंगत्वं ध्रुवं सिंधुर्न वाञ्छति यथा तथा ।
विषयानन्दवाञ्छा ते महदानन्दरूपतः ॥ १० ॥
पिष्टं व्याप्यगुडं यद्वन्माधुर्यं न हि वाञ्छति ।
पूर्णानन्दो जगद्व्याप्य तदानन्दं न वाञ्छति ॥ ११ ॥
दारिवाद्र्याशा यथा नास्ति संपन्नस्य तथा एव ।