विश्वं यावद्विभाति द्रुमनगनगरारामचैत्याभिरामं
तावच्चैतन्यमेकं प्रविकसति यतोऽन्ते तदात्मावशेषम् ॥ ६२ ॥
वाद्यान्नादानुतिर्यदपि तदपि सा नूनमाघातगम्या
वाद्याघातध्वनीनां न पृथगनुभवः किन्तु तत्साहचर्यात् ।
मायोपादानमेतत्सहचरितमिव ब्रह्मणाऽऽभाति तद्वत्
तस्मिन्प्रत्यक्प्रतीते न किमपि विषयीभावमाप्नोति यस्मात् ॥ ६३ ॥
दृष्टं साक्षादिदानीमिह खलु जगतामीश्वरः संविदात्मा
विज्ञातः स्थाणुरेको गगनवदभितः सर्वभूतान्तरात्मा ।
दृष्टं ब्रह्मातिरिक्तं सकलमिदमसद्रूपमाभासमात्रं
शुद्धं ब्रह्माहमस्मीत्यविरतमधुनाऽत्रैव तिष्ठेदनीहः ॥ ६४ ॥
इन्द्रेद्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्ति-
स्तस्यामानंदसांद्रं पदमतिगहनं यत्स आनंदकोशः ।
तस्मिन्नो वेद किंचिनिरतिशयसुखाभ्यतरे लीयमानो
दुःखी स्याद्बोधितः सन्निति कुशलमतिर्बोधयेन्नैव सुप्तम् ॥ ६५ ॥
सर्वे नंदन्ति जीवा आधिगतयशसा गृह्णता चक्षुरादीन्
अन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्यसंस्थाः ।
एतेषां किल्बिषस्पृग्जठरभृतिकृते यो बहिर्वृत्तिरास्ते
त्वक्चक्षुः श्रोत्रनासारसनवशमितो याति शोकं च मोहम् ॥ ६६ ॥
जाग्रत्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नान्विधास्यन्
श्राम्यत्सर्वेद्रियौघोऽधिगतमपि सुखं विस्मरन्याति निद्राम् |
विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि
सुखं सर्वोत्तमं स्यात्परिणतिविरसादिन्द्रियोत्थात्सुखाच्च ॥ ६७ ॥
पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युच्चदेशं
लब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य ।
दुःसंकल्पैर्विकल्पैर्विषयमनु कदर्थीकृतं चित्तमेतत्