पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
शतश्लोकी ।


क्लेशैः प्राणावशेषैर्महदपि मनुते नान्यदस्माद्गरीय-
 स्त्वेकालाभेऽप्यकृत्स्नो मृत इव विरमत्येकहान्याऽकृतार्थः ॥ ३१ ॥

नासीत्पूर्वं न पश्चादतनुदिनकराच्छादको वारिवाहः
 दृश्यः किं त्वन्तराऽसौ स्थगयति स दृशं पश्यतो नार्कबिम्बम् ॥
नो चेदेवं विनाऽर्कं जलधरपटलं भासते तर्हि कस्मात्
 तद्वद्विश्वं पिधत्ते दशमथ न परं भासकं चालकं स्वम् ॥ ३२ ॥

भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयः
 राज्यभ्रष्टोऽहमित्थं न भजति विषमं तन्मृषा मन्यमानः ॥
स्वप्ने कुर्वन्नगम्यागमनमुखमघं तेन न प्रत्यवायी
 तद्वज्जाग्रद्दशायां व्यवहृतिमखिलां स्वप्नवद्विस्मरेच्चेत् ॥ ३३ ॥

स्वप्नावस्थाऽनुभूतं शुभमथ विषमं तन्मृषा जागरे स्यात्
 जाग्रत्यां स्थूलदेहव्यवहृतिविषयं तन्मृषा स्वापकाले ॥
इत्थं मिथ्यात्वसिद्धावनिशमुभयथा सज्जते तत्र मूढः
 सत्ये तद्भासकेऽस्मिन्निह हि कुत इदं तन्न विद्मो वयं हि ॥ ३४ ॥

जीवन्तं जाग्रतीह स्वजनमथ मृतं स्वप्नकाले निरीक्ष्य
 निर्वेदं यात्यकस्मान्मृतममृतममुं वीक्ष्य हर्षं प्रयाति ॥
स्मृत्वाऽप्येतस्य जन्तोर्निधनमसुयुतिं भाषते तेन साकं
 सत्येवं भाति भूयोऽल्पकसमयवशात्सत्यता वा मृषात्वम् ॥ ३५ ॥

स्वाप्नस्त्रीसङ्गसौख्यादपि भृशमसतो या च रेतश्चुतिः स्यात्
 सा दृश्या तद्वदेतत्स्फुरति जगदसत्कारणं सत्यकल्पम् ॥
स्वप्ने सत्यः पुमान्स्याद्युवतिरिह मृषैवानयोः संयुतिश्च
 प्रातः शुक्रेण वस्त्रोपहतिरिति यतः कल्पनामूलमेतत् ॥ ३६ ॥

पश्यन्त्याराममस्य प्रतिदिवसममी जन्तवः स्वापकाले
 पश्यत्येनं न कश्चित्करणगणमृते मायया क्रीडमानम् ॥
जाग्रत्यर्थव्रजानामथ च तनुभृतां भासकं चालकं वा