पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।


तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८४ ॥
यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ।। ८५ ॥
यथा शशी जले भाति चंचलत्वेन कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८६ ॥
एवमात्मन्यविद्यातो देहाध्यासो हि जायते ।
स एवात्मा परिज्ञातो लीयते च परात्मनि ॥ ८७ ॥
सर्वमात्मतया ज्ञात जगत्स्थावरजगमम् ।
अभावात्सर्वभावानां देहानां चात्मता कुतः ॥ ८८ ॥
आत्मानं सततं जानन् काल नय महामते ।
प्रारब्धमखिलं भुजन्नोद्वेगं कर्तुमर्हसि || ८९ ॥
उत्पन्नेऽप्यात्मविज्ञाने प्रारब्ध नैव मुंचति ।
इति यच्छ्रूयते शास्त्रे तन्निराक्रियतेऽधुना ॥ ९० ॥
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्ध नैव विद्यते ।
देहादीनामसत्यत्वाद्यथा स्वप्नो विबोधतः ॥ ९१ ॥
कर्म जन्मान्तरकृत प्रारब्धमिति कीर्तितम् ।
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ।। ९२ ॥
स्वप्नदेहो यथाऽध्यस्तस्तथैवाय हि देहकः ।
अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः ॥ ९३ ॥
उपादान प्रपचस्य मृद्भांडस्यैव कथ्यते ।
अज्ञान चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥ ९४ ॥
यथा रज्जुं परित्यत्य सर्पं गृह्णाति वै भ्रमात् ।
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५ ॥
रज्जुरूपे परिज्ञाते सर्पभ्रांतिर्न तिष्ठति ।
अधिष्ठाने तथा ज्ञाते प्रपचः शून्यतां व्रजेत् ॥ ९६ ॥