दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाऽक्रोधसञ्ज्ञा
श्रद्धाऽऽस्तिक्यं च सत्यं सदिति परमतः सेतुसञ्ज्ञं चतुष्कम् ॥
तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भिः
तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ १९ ॥
अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नं
यश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य ॥
लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्यात्
त्यक्त्वा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः ॥ २० ॥
लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाय
यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः ॥
सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं
संसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात् ॥ २१ ॥
स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तः
जीवेष्वास्वर्णगर्भं श्रुतय इति जगुर्हूयते स्वप्नबोधे ।
विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्वत्
शुक्तौ रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात् ॥ २२ ॥
तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नो सदासीत्
किंत्वाभ्यामन्यदासीद्व्यवहृतिगतिसन्नास लोकस्तदानीम् ॥
किंत्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वः ।
शर्मण्यात्मन्यथैतत्कुहकसलिलवत्किं भवेदावरीवः ॥ २३ ॥
बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासीत्
यद्वद्रात्रिर्दिने वा न भवति तरणौ किन्तु दृग्दोष एषः ॥
अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसञ्ज्ञं ।
तस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव ॥ २४ ॥
प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतर्क्यं