पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
शतश्लोकी।


 अन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥ १२ ॥
वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या-
 दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान् ॥
नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्णः
 साक्षादित्थं विजानन्व्यवहरति परात्मानुसन्धानपूर्वम् ॥ १३ ॥
नैर्वेद्यं ज्ञानगर्भं द्विविधमभिहितं तत्र वैराग्यमाद्यं
 प्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः ॥
अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्यात्
 प्रव्रज्याऽपि द्विधा स्यान्नियमितमनसां देहतो गेहतश्च ॥ १४ ॥
यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतोः
 देहेऽहन्ता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे ॥
जानन्रोगाभिघाताद्यनुभवति यतोऽनित्यदेहात्मबुद्धि-
 भर्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥
तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षुः
 देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः ॥
आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं
 देहाद्यं सर्वमेव प्रविदितविषयो यश्च तिष्टत्ययत्नः ॥ १६ ॥
शक्त्या निर्मोकतः स्वाद्बहिरहिरिव यः प्रव्रजन्स्वीयगेहात्
 छायां मार्गद्रुमोत्थां पथिक इव मनाक् सश्रयेद्देहसंस्थाम् ॥
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्ष्यमन्नं
 स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेदेहतोऽपि ॥ १७ ॥
कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातं
 तद्गृहातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च ॥
प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्यात्
 सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगात् ॥ १८ ॥