पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
योगतारावली।


 न्नुपायमेकं तव निर्दिशामः ॥
पश्यन्नुदासीनतया प्रपच
 सकल्पमुन्मूलय सावधान' ॥ १९ ॥
प्रसह्य संकल्पपरंपराणा
 सभेदने संततसावधानम् ॥
आलंबनाशादपचीयमान
 शनैः शनै' शांतिमुपैति चेतः ।। २० ॥
निश्वासलोपर्निभृतैः शरीरै-
 नेत्रांबुजैरर्धनिमीलितैश्च ॥
आविर्भवन्तीममनस्कमुद्रा-
 मालोकयामो मुनिपुगवानाम् ॥ २१ ॥
अमी यमीद्राः सहजामनस्का-
 दहममत्वे शिथिलायमाने
मनोतिग मारुतवृत्तिशून्य
 गच्छन्ति भाव गगनावशेषम् ।। २२ ॥
निवर्तयन्ती निखिलद्रियाणि
 प्रवर्तयन्ती परमात्मयोगम् ॥
सविन्मयी ता सहजामनरकां
 कदा गमिष्यामि गतान्यभावः ॥ २३ ॥
प्रत्यग्विमर्शातिशयेन पुंसा
 प्राचीनगधेतु पलायितेषु ॥
प्रादुर्भवेत्काचिदजाड्यनिद्रा
 प्रपंचचिंतां परिवर्जयन्ती || २४ ।।
विन्छिनसकल्पविकल्पमूले
 नि शेषनिर्मूलितकर्मजाले ॥