पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


७७
श्रीस्कान्दपुराणे तृतीयेऽध्यायः


इति पृष्टशिरं दध्यैौ जैमिनिर्मुनिपुङ्गवः ।
ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत् ॥ ४६

ध्यानष्ठस्य शापेन हृन्मतस्ते सुतोऽभवत् ।
तस्य शापस्य मोक्षार्थं उपायं प्रब्रवीमि ते ॥ ४७

सुवर्णमुखरीतीरे वेङ्कटे नाम पर्वते ।
सर्वपापहरे पुण्ये नानाधातुविनिर्मिते ॥ ४८

स्वामिपुष्करिणी चेति तीर्थमस्ति महत्तरम् ।
पक्त्रिाणां पवित्रं हि मङ्गलानाञ्च मङ्गलम् । ४९

भृतिसिद्धे महापुण्यं प्रकइत्यादिशधकम् ।
नीत्वा तत्र सुतं तेऽध स्नापयस्व महामते ! ॥ ५०

उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ।
इत्युक्तम्तं प्रणम्यासौ जैमिनिं मुनिपुङ्गवम् ॥ ५१

नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ ।
तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥ ५२

स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः।
स्वयं सस्नौ स नन्दोऽपि स्यामिपुष्करिणीजले ॥ ५३

उषित्वा दिनमेकन्तु सहपुत्रः पिता तदा।
सेवित्वा वेटेशच श्रीनिवासं कृपानिधिम् ॥ ५४

पुत्रमापृच्छय नन्दस्तं प्रययौ तपसे धनम् ।
गते पितरि पुत्रोऽपि धर्मगुप्त नृपो द्विजाः ! ॥ । ५५

प्रददौ वेङ्कटेशस्य बहुवित्तानि भक्तितः ।
आक्षणेभ्यो धनं धान्य क्षेत्राणि च ददौ तदा ।। ५६

प्रययौ मन्त्रिभिः सार्ध स्वां पुरीं तदनन्तरम् ।
धर्मेण पालयामास राज्यं निहतकण्टकम् ॥ ५७