काश्यपः---
'भगवन् ! सर्वधर्मज्ञ ! शा कल्य ! हरिवल्लभ ! ।
मुनयो ब्राह्मणाश्चान्ये मां निन्दन्ति सुहृज्जनाः ॥ ६२
नास्याहं कारणं जाने किं मां निन्दन्ति मानवाः ।
ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥ ६३
स्तेयं संसर्गदोषो वा मया नाऽचरितं क्वचित् ।
अन्यान्यपि च पापानि न कृतानि मया मुने ! ॥ ६४
तथाऽपि निन्दन्ति जनाः वृथा मां बान्धवादयः ।
जानासि चेत् त्वं शाकल्य ! मया दोषं कृतं वद !' ॥ ६५
उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः ।
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ॥ ६६
शाकल्योक्तधर्माः
शाकल्यः---
'परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ।
आयासीदर्धमार्गे तु तक्षकेण निवारितः ॥ ६७
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ।
यो न रक्षति लोकेऽस्मिन् तमाहुर्ब्रह्मघातुकम् ॥ ६८
क्रोधात्कामाद्भयाल्लोभात् मात्सर्यान्मोहतोऽपि वा ।
यो न रक्षति विप्रेन्द्र ! विषरोगातुरं नरम् ॥ ६९
ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः ।
संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः ॥ ७०
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ।
कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चितं न विद्यते ॥ ७१
विषरोगातुरं यस्तु समर्थोऽपि न रक्षति ।
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥ ७२
पा. 5.