तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ।
तन्नरं न विजज्ञाते तौ च काश्यपतक्षकौ ॥ ३९
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ।
'मन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रादयोऽधुना' ॥ ४०
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ।
आजीवयन् मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः ॥ ४१
स नरस्तेन वृक्षेण साकमुज्जीवितोऽभवत् ।
अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम् ॥ ४२
'यथा न मुनिवाक् मिथ्या भवेदेवं कुरु द्विज ।
यत्ते राजा धनं दद्यात् ततोऽपि द्विगुणं धनम् ॥ ४३
ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम !' ।
इत्युक्त्वाऽनर्घरत्नानि तस्मै दत्वा स तक्षकः ॥ ४४
न्यवर्तयन् काश्यपं तं ब्राह्मणं मन्त्रकोविदम् ।
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ॥ ४५
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ।
सोऽब्रवीत्तक्षकः सर्पान् सर्वानाहूय तत्क्षणे ॥ ४६
'यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ।
उपहारफलान्याशु प्रयच्छथ परीक्षिते' ॥ ४७
'तथे'त्युक्ता सर्वसर्पाः ददू राज्ञे फलान्यमी ।
तक्षकोऽपि तथा तत्र कस्मिंश्चिद्बदरीफले ।
कृमिवेषधरो भूत्वा व्यतिष्ठद्दशितुं नृपम् ॥ ४८
अथ राजा प्रदत्तानि सर्वैर्ब्राह्मणरूपकैः ।
परीक्षित् मन्त्रिवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥ ४९
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८१
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
श्रीस्कान्दपुराणे प्रथमोऽध्यायः