भगवत्सन्निधिं प्राप्ताः स्तोत्रं चक्रुः पृथक् पृथक् ।
'जय सर्वगुहावास ! लोक रक्षामणे ! हरे ! ॥ ३६
भक्तार्तपालनपरः ! प्रणतार्तिहर ! प्रभो ! ।
लक्ष्मीनाथ ! जयानन्त ! रक्षिताशेषभूसुर ! ।
पुनीहि सकलाँल्लोकान् पालय त्वं कृपालय !' ॥ ३७
तम्बुरुः---
'वन्दे सदा वेङ्कटशैलनाथं
त्वामेव मे पापहरो भव त्वम् ।
तीर्थानुभावञ्च तवानुभावं
श्रोतुं ममेच्छा परिवर्धते हि' ॥ ३८
भगवदाज्ञयाऽगस्यवर्णिततुम्बुरुतीर्थमाहात्म्यम्
सूतः---
इति स्तुतो वेङ्कटेशः कुम्भसम्भवमब्रवीत् ।
'एतेषामद्य सर्वेषां वेङ्कटाचलवैभवम् ॥ ३९
महात्म्यमपि तीर्थस्य वद किञ्चन्महामते' ।
इत्युक्तो देवदेवेन तत्रागस्त्योऽब्रवीदिदम् ॥ ४०
पुण्योऽयं वेङ्कटगिरिः सर्वपुण्यस्थलेष्वपि ।
समस्ततीर्थान्यत्रैवं पुण्यानि निवसन्ति हि ॥ ४१
भक्तापराधान् सोढ्वैव वेङ्कटेशो दयापरः ।
रक्षत्येव ततः सोऽयं सेव्यः श्रीवेङ्कटेश्वरः ॥ ४२
स्नातानामत्र तत्तीर्थं सर्वपापक्षयो भवेत् ।
सर्वश्रेयांसि सिद्ध्यन्ति नात्र कार्या विचारणा ॥ ४३