पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
श्रीवेङ्कटाचलमाहात्म्यम्

 'गच्छ विप्र ! स्वकं ग्रामं धनवत्स्वगृहं व्रज ।
 वेङ्कटेशप्रसादेन धनधान्यादिकं बहु ॥ ९५

 स्नानदानजपादीनि विप्रकर्माणि चाऽचर ।
 महत्सु पूजां कुर्वाणो भोजयन् ब्राह्मणानपि ॥ ९६

 वेङ्कटेशेत्यभिवदन् पुत्रपौत्रैः सुखी भव' ।
 इत्युक्तः स वसिष्ठेन नत्वा तत्पादपङ्कजम् ॥ ९७

 स्वग्राममगत् सिद्धः सर्वैरभ्युद्गतोऽभवत् ।
 'सर्वसिद्ध ! भवान् धन्यो वेङ्कटेशकृपानिधिः ॥ ९८

 वसिष्ठस्य प्रसादेन त्वत्समः पुरुषो न हि ।
 एवं सम्पूजितः सर्वै ब्राह्मणक्षत्रियादिभिः ॥ ९९

 धनधान्ययुतः सपुत्रपौत्रः
  स सदाचारयुतः सदानधर्मः ।
 अथ वेङ्कटनायकेति जल्पन्
  अवनौ ब्राह्मणपुङ्गवो बभूव ॥ १००

 एवं सत्सङ्गमहिमा त्वेवं वेङ्कटवैभवः ।
 एवं तुम्बुरुतीर्थस्य महिमा लोकसम्मतः ॥ १०१

 इम प्रसङ्गं यो विद्वान् वेङ्कटाचलवैभवम् ।
 मीनमासे पूर्णिमायां पठते जनसंसदि ॥ १०२

 वक्तुश्च भक्त्या श्रोतॄणां वाञ्छितानि ददात्यसौ ।
 यस्तु वेङ्कटमाहात्म्यकथाकथनकोविदः ।
 विष्ण्वशं तं प्रशंसन्ति व्यासाद्या मुनयस्तथा ॥ १०३

सूतः---
 वेङ्कटाचलमाहात्म्यं शृतं वा पावनं द्विजाः ! ।
 यस्मिञ्छ्रुतेऽन्यमाहात्म्यश्रमणेच्छा न जायते ॥ १०४