पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
श्रीब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

 तस्य लक्ष्म्या समेतोऽहं वसामि सततं हृदि ।
 अयन्तु बहुपापानि कृतवाँल्लोकगर्हितः ॥ ६४

 एको गुणोऽपि नास्त्यस्मिन् सर्वाबद्ध इतीरितः ।
 तथाऽपि त्वत्सहायेन तीर्थमागत्य भक्तितः ॥ ६५

 स्नानश्च पूर्णिमायोगे पापं सर्वं लयं गतम् ।
 सर्वे चास्मिन् गुणा जाताः सहवासेन ते मुने ! ॥ ६६

 तस्मात् स सर्वसिद्ध्याख्यां अद्यप्रभृति यास्यति ।
 अस्याहं हृदये तिष्ठन् सत्कर्माणि प्रवर्तयन् ॥ ६७

 धनिकं धार्मिकञ्चैव करोमि सुखिनं तदा !
 वसिष्ठ ! शृणु मद्वाक्यं एतेषां सन्निधौ ब्रुवे ॥ ६८

 पौरोहित्येन सञ्जातं तव दोषं हराम्यहम् ।
 पुरुषो वाऽथवा नारी ब्राह्मणः क्षत्रियोऽपि वा ॥ ६९

 पापान्मुक्तो वाञ्छितानि प्राप्नोति हि न संशयः ।
 मामुद्दिश्य तपस्तप्त्वा तुम्बुरुर्भगवानिह ॥ ७०

 तीर्थस्य स्वस्य नाम्नैव ख्यातिं प्रार्थितवानभूत् ।
 अज्ञानाद्विहितं ज्ञानात् मनोवाक्कायकर्मभिः ॥ ७१

 यत्पापं तदशेषञ्चाप्यत्र स्नानेन शाम्यति ।
 नारी वा पुरुषो वापि स्नात्वा तीर्थे शुभे दिने ॥ ७२

 इष्टार्थं स्वं स्वमाप्नोति नात्र कार्या विचारणा ।
 दत्ता तुम्बुरुतीर्थाऽख्या तीर्थस्यास्य महामुने ! ॥ ७३

 वर्षे वर्षे मीनमासे पूर्णिमायां शुभे दिने ।
 स्नाति तुम्बुरुतीर्थेऽस्मिन् स धन्यो भुवनत्रये ॥ ७४

 कन्या भर्तारमाप्नोति लोके सर्वगुणोतरम् ।
 युवती दीर्घमाङ्गल्यं कुलोत्तारं सुतं तथा ॥ ७५

पा. 4.