प्रसन्नवदनाम्भोजः सर्वप्राणिदयापरः ।
कटाक्षयन्करुणया सर्वांस्तीर्थार्थमागतान् ॥ ५४
सनन्दसनकाद्यैश्च सेनेशानन्तसंयुतः ।
सेव्यमानो वेङ्कटेशो वसिष्ठं वाक्यमवीत् ॥ ५५
वसिष्ठं प्रति भगवद्वर्णितघोणतीर्थमाहात्म्यम्
'वसिष्ठोहं प्रसन्नोऽस्मि तव ! वर्धस्व वैभवात् ।
मम तीर्थस्य माहात्म्यं श्रुत्वा ब्रह्ममुखाद्भवान् ॥ ५६
भक्त्या समागतो यस्मात् ततस्तुष्टोऽस्मि ते मुने ! ।
वरं वरय विप्रेन्द्र ! यत्ते मनसि वर्तते ।
इत्युक्तो वेङ्कटेशेन मुनिः प्रोवाच केशवम् ॥ ५७
वसिष्ठः---
'नमोऽस्तु वेङ्कटाधीश ! विश्वरक्षामणे ! हरे ! ।
विज्ञापनां मदीयां त्वं सावधानमनाः शृणु ॥ ५८
अयं विप्रो मम सखा कृतवानपि पातकम् ।
मध्यनुग्रहबुद्ध्या च तीर्थस्यास्य प्रभावतः ॥ ५९
सर्वं सोढ्वा पवित्रञ्च कुरु पापविवर्जितम्' ।
उक्तो वसिष्ठेनैवन्तु वेङ्कटचलनायकः ॥ ६०
भगवान्---
'वसिष्ठ ! जातः सन्तोषो ममानीव महामुने ! ।
ममाश्रितोऽयमित्येव दया तस्मिंस्त्वया कृता ॥ ६१
य आश्रितेषु वात्सल्यं कुरुते स इहोत्तमः ।
तस्मिन्मम महाप्रीतिः तन्मदीयगुणो महान् ॥ ६२
अयञ्च त्वयि विश्वासात् भक्तिं विहितवानहो ।
महत्सु भक्तिं यः कुर्यात् स एव पुरुषोत्तमः ॥ ६३