तत्र स्नात्वा भूवराहं प्रणम्य
ह्येनःशातिं प्रार्थयित्वा स विप्रः ।
लक्ष्मीनाथं दक्षिणे कूलभागे
नत्वा नाथं स्तोत्रयामास सम्यक् ॥ ४५
'जय ! धातृगिरा निदर्शितो
जय ! लोकावनदक्ष रक्ष माम् ।
जय ! शङ्खणपूजितेह मां
द्विजसेनञ्च पुनीहि केशव ! ॥ ४६
तव वेङ्कटनायकाचले
महति श्रीधर ! घोणतीर्थके ।
अभिषेकविधित्सयाऽऽगतो
भगवंस्तत्र फलं प्रयच्छ मे' ॥ ४७
इति स्तुत्वोत्तरे देशे पापनाशनतीर्थके ।
सर्वाबद्धेन सहितः स्नात्वा घोणं जगाम ह ॥ ४८
एकादश्यां तत्र गत्वा पञ्चरात्रमुवास ह ।
मीनमासे पञ्चदश्यां मध्याह्ने स्नातुमागतान् ॥ ४९
ऋषीन् देवांश्च यक्षांश्च गन्धर्वान्किन्नरांस्तथा ।
आश्चर्यं परमं गत्वा वसिष्ठो विप्रसंयुतः ॥ ५०
स्नात्वा सङ्कल्प्य विधिवत् देवर्षीनभितर्प्य च ।
सह विप्रेणोपविश्य जपं चक्रे विधानतः ॥ ५१
जपान्ते श्रीहरिं ध्यायन् समाधिस्थोऽभवन्मुनिः ।
स्नात्वा तिष्ठत्सु सर्वेषु तत्र घोणे पुरो मुनेः ॥ ५२
आविरासीद्वेङ्कटेशः श्रिया सार्धं जगत्पतिः ।
गरुडासनमारूढः पीताम्बरधरो हरिः॥ ५३
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६५
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
श्रीब्रह्मोत्तरखण्डे प्रथमोऽध्यायः