पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
श्रीब्रह्मपुराणे दशमोऽध्यायः

 उपपातकमुख्यानि निर्दहेत्सूर्यवद्धिमम् ।
 वेङ्कटेशस्य माहात्म्ये यस्य गेहे प्रवर्तते ।
 आयुरारोग्यमैश्वर्यं सोऽन्ते विष्णुपदं लभेत् ॥ ४५

सूतः---
 इति श्रुत्वा दिलीपोऽपि वैभवं परमाद्भुतम् ।
 आनन्दाम्बुधिसम्मग्नो न हि वेद तदा परम् ॥ ५६

 अश्रुत्वा महिमानन्तु फलं न प्राप्यते नरैः ।
 श्रुत्वा चैव फलं यान्ति विष्णोः सायुज्यमप्यथ ॥ ५७

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचले

महादानमाहात्म्यवर्णनं नाम

दशमोऽध्यायः ।