अङ्गानि व्यग्रतां प्रापुः रोगोत्कृत्तानि खण्डशः ।
दरिद्रा गुरुपत्न्यस्ताः पातित्यात्यन्तदु खिताः ॥ ३४
मदादैश्वर्यजाद्भुक्ता बलात्तेन तदाऽपि च ।
ततो लोकापवादाञ्च गृहस्यार्प्याग्नदाहनात् ॥ ३५
अयञ्च बन्धुभिस्त्यक्तो वनमेवाविशत्खलः ।
सृगालमक्ष्यतां प्रातो नीतोऽयं यमकिङ्करैः ॥ ३६
जगाम नरकं घोरं चण्डकोलाहलं परम् ।
यत्र वै नारकं दुःखं संकलञ्चापि वर्तते ॥ ३७
वेङ्कटाद्रौ वेदाभिधद्विजकृतदीपारोपप्रशंसा
तत्पुत्रो वेदनमा च कदाचिद्वेङ्कटाचले ।
पितुः पापञ्च संस्मृत्य देवदेवस्य सन्निधौ ॥ ३८
अहोरात्रं ददावेकदिने दीपं नृपोत्तम ! ।
तत्पिता तेन पुण्येन विध्वस्ताखिलपालकः ॥ ३९
धिक्कृत्य यमदूतांश्च विष्णुलोकमुपाययौ ।
तस्माद्दीपप्रदो मर्त्यो न पुनर्दुःखमश्नुते ॥ ४०
यत्किञ्चित्कुरुते दानं वेङ्कटाचलमूर्धनि ।
तदाकल्पमविच्छिन्नं वर्धते वटवीजवत् ॥ ४१
तदेतत्सकलं श्रुत्वा वेङ्कटेशस्य वैभवम् ।
चलति स्वगृहाद्यस्तु कृतनिश्चयया धिया ॥ ४२
पदेपदे सोऽश्वमेवफलं प्राप्नोत्यसंशयम् ।
वेङ्कटेशस्य माहात्म्ये श्लोकञ्चार्धञ्च भक्तितः ॥ ४३
पदञ्चाप्यक्षरञ्चापि यः पठेच्छृणुयात्स तु ।
ब्रह्महत्यासहस्राणि पातकान्यपराण्यपि ॥ ४४