कन्याकोटेः प्रदानाद्यत् स्यादर्बुदगवां तथा ।
एकस्माद्रथनिर्माणात् विष्णोस्तत्फलमश्नुते ॥ ११
छत्रञ्च कनकञ्चैव व्यजनं चामरं स्रजम् ।
यो दद्याच्छ्रीपतेर्विष्णोः वेङ्कटाख्ये महीधरे ॥ १२
आब्रह्मकल्पपर्यन्तं मही पालो भवेत् ध्रुवम् ।
पश्चान्मोक्षमवाप्नोति पितृपैतामहैर्वृतः ॥ १३
यो दद्याद्गजमश्वं वा भुवनाधिपतेर्विभोः ।
स लोकपाल-मिति नात्र कार्या विचारणा ॥ १४
यद्यदिष्टतमं वस्तु दीयते मधुघातिनः ।
तेनाक्षयफल प्राप्य मोदते विष्णुमन्दिरे ॥ १५
फलं पात्रानुगुण्यात्स्यात् पात्रमत्र हरिः स्वयम् ।
अक्षय्यमिति किं ब्रूयात्? यत्किञ्चिदपि मोक्षदम् ॥ १६
तत्र पुण्यतमे काले श्रोत्रिये ब्राह्मणोत्तमे ।
यत्किञ्चिद्दीयते तत्तु वर्धते वटबीजवत् ॥ १७
मुक्तिकामेन दातव्या कन्या पृथ्वी सरस्वती ।
न तासां सदृशं दानं त्रिषु लोकेषु विद्यते ॥ १८
गीतवादित्रनृत्याद्यं यः कारयति मानवः ।
सद्य एव स मुच्येत महापातककोटिभिः ॥ १९
कुर्याद्ध्वजपताकाभिः सपर्यां परमात्मनः ।
तेन धूताखिलाघः सन् स याति परमां गतिम् ॥ २०
घण्टां ददाति यो मर्त्यो विष्णवे परमात्मने ।
दिव्यज्ञानमवाप्नोति प्रतिष्ठाञ्चाधिगच्छति ॥ २१
यः कुर्यादुत्सवं विष्णोः सद्ध्वजैर्गरुडादिभिः ।
देवेन्द्रपदमाप्नोति मोक्षञ्चैवाधिगच्छति ॥ २२