पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
श्रीवेङ्कटाचलमाहात्म्यम्

 सत्कर्मसन्ततिर्या तु ज्ञानविज्ञानसंयुता ।
 अपरोक्षदृश चापि भक्तिश्रद्धाविरक्तिभिः ॥ १९

 पुंसः कैवल्यदा सा हि क्रमेण सुकृतात्मनः ।
 दृष्टश्रुतानुभावा ये देवाश्च ऋषयस्तथा ।
 विशुद्ध्यर्थं प्रकुर्वन्ति सत्क्षेत्रस्यानुवर्तनम् ॥ २०

 भक्तिश्रद्धाविहीनानां मनुष्याणान्तु का कथा ! ।
 लब्धविद्याधिकारश्च सत्सङ्गत्यागसंयुतः ॥ २१

 यः शृण्वन् श्रावयश्चापि सतां सङ्गेन संयुतः।
 तीर्थवैभवमाकर्ण्य संयुक्तेनैव निर्वृतः॥ २२

 तीर्थयात्रां प्रकुर्वीत भक्तिश्रद्धासमन्वितः ।।
 तेन निर्धूतपापः सन् स याति परमां गतिम् ॥ २३

 यत्र यत्र त्वया कार्या तीर्थयात्रा क्षितीश्वर ! ।
 तत्रानेन विधानेन प्रीणयस्व जनार्दनम् ॥ २४

 त्वदीयधनधान्यादीन् भक्त्या कुरु समर्पितान् ।
 वेङ्कटेशस्य यात्रां वै कुरु नित्यमतन्द्रितः ॥ २५

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये तीर्थयात्राप्रकार-


वर्णनं नाम नवमोऽध्यायः ।