पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७६
श्रीवेङ्कटाचलमाहात्म्यम्


तयोरनुग्रहेणैव वैकुष्टक्षेत्रपालयोः ।
भद्रं वो वसतां नित्यं शाश्वतं भवति द्विजाः! ॥ १८७

अस्मिन् क्षेत्रे कृतानचे महतां पापकर्मणाम् ।
क्षेत्रपाठ्य शूलाने यातना चकवद्भवेत् ॥ १८८

युगान्तं क्षणमात्रेण तेषां कालतु गच्छति ।
पापान्ते मुक्तिरस्येव वेइटौ न संशयः ॥ १८९

सत्यं सत्यं पुनः सस्यं मद्गुरोर्वचनं द्विजाः ।।
भवतां पुण्यशीथनां नैमिशारण्यवासिनाम् ॥ १९०

कृपयाऽनुग्रहं लब्ध्वा कशीं गत्वा प्रणम्य च ।
गुरोः पादमूल्व व्यासयामिततेजसः ॥ १९१

अनुज्ञया गमिष्यामि वेदयवैि द्विजोत्तमाः!।
स्तवाक्यं तदा श्रुत्वा शौनकश्च ऋषीश्वराः ॥ १९२

समष्य सत्रमगत्य वेङ्कटाद्रिमनूष्य च ।
स्तवाक्यप्रवणेन तत्रानन्दपदाम्बुधैौ ॥ १९३

देहान्तं प्राप्य मोदन्ते ससुताः शौनकादयः ।
इमं पवित्रमध्यायं साक्षात्संसारमोचकम् ॥ १९४

सर्ववेदान्तसिद्धान्तं यः श्रवयति नित्यशः ।
वेङ्कटेश्वरभक्तेभ्यो ब्राझणेभ्यश्च योगिनाम् ॥ १९५

यः शृणोति सदा भक्त्या रहस्यानुभवोतमम् ।
याः स्थापयति लोकेऽस्मिन् सिद्धान्तमिममदूतम् ॥ १९६

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुनार्थी लभते पुत्रान् कन्यार्थी लभते वधम् ॥ १९७

वक्ष्यार्थी क्यमाप्नोति जयार्था जयमाप्नुयात् ।
मोक्षार्थं मोक्षमाप्नोति ज्ञानर्थं शनमाप्नुवंत्॥ १९८